वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नोधा छन्द: बृहती स्वर: मध्यमः

तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥

अंग्रेज़ी लिप्यंतरण

taṁ vo dasmam ṛtīṣahaṁ vasor mandānam andhasaḥ | abhi vatsaṁ na svasareṣu dhenava indraṁ gīrbhir navāmahe ||

पद पाठ

तम् । वः॒ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसोः॑ । म॒न्दा॒नम् । अन्ध॑सः । अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । इन्द्र॑म् । गीः॒ऽभिः । न॒वा॒म॒हे॒ ॥ ८.८८.१

ऋग्वेद » मण्डल:8» सूक्त:88» मन्त्र:1 | अष्टक:6» अध्याय:6» वर्ग:11» मन्त्र:1 | मण्डल:8» अनुवाक:9» मन्त्र:1